Sunday 5 March 2017

शिवमन्दिरम् -- मद्यपश्च

नमस्ते--
समस्या--
केनचित् लिखितम्--
सोपाने शिवमन्दिरस्य मदिरां पीत्वा प्रमत्तं क्वचित्
दृष्ट्वा पण्डितमण्डितस्तमवदत् दैवात् तु भीतिं भज
श्रुत्वैतन्ननु मद्यपस्य वचनैर्मूकोभवत् वुद्धिमान्
शम्भुर्यत्र न तद्वद स्वयमितो यास्याम्यहं तत्र भो।।

मदिरा पीकर मस्त एक आदमी को शिव मन्दिर की सीढ़ी पर देखकर पुजारी ने कहा कि अरे भगवान का तो खयाल करो।तो पियक्कर ने ऐसी बात कही कि पंडित की बोलती बन्द हो गई। वह बोला कि शिव कहा नहीं हैं वह जगह बता दो मै वही चला जाउंगा।ll
समाधानम् ---
भावस्तु समीचीनः, किन्तु तत्वं चिन्तयामश्चेत् किमेतत् युक्तम्??शिवस्योपरि यदि तस्य भक्तिः, तर्हि किं सः मद्यपो भूत्वा चरेत्?? मन्दिरे यः देवः, सः अर्चकस्य इष्टः, देवस्य औन्नत्यं सः याजकः जानाति, मद्यपस्तु केवलं यथाकथंचित् पातुमिच्छति। तदर्थं व्याजं करोति। अस्य भावस्य माध्यमेन मद्यपस्य गुणगानं कियद्युक्तम्??
मन्दिरस्तु पवित्रप्रदेशः। एवं मद्यपानं तत्र उपविश्य कर्तुं शक्यते इति अयुक्तभावः अत्र व्यज्यते।
-----------------
आक्षेपानां समाधानानि--
1. कवेर्भावं न जानीमः--
मूकोभवत् बुद्धिमान्-- इत्यनेन वाक्येन कवेर्भावं सुस्पष्टं व्यक्तमिति, इतः परं लेखितुं किमपि नावशिष्टमिति च मन्ये। तत्र विप्रतिपत्तिः वा, "किमयं यद्वदति, तत् सत्यं, न वे"ति वा पण्डितः न मीमांसते किल।
2. भावः एव ग्राह्यः--
सत्यम्। किन्तु एतस्य पद्यस्य प्रभावेण भावमात्रं गृहीत्वा सर्वेषां मद्यपानां मन्दिरे व्यवस्थां तु कर्तुं न शक्नुमः किल?
3. कोsत्र दोष:---
किं तथा यदि विद्यालये आचरेत् सः मद्यपः, किमयं क्षन्तव्यः?? यतो हि तत्रापि ईश्वरः अस्ति। अमुमेव सिद्धान्तमाधृत्य गृहमध्ये आगत्य पातुमारभते, मर्कट इव प्रवर्तते, तर्हि किं सः तथा कर्तुं प्रोत्सहार्हः उत न?? पीत्वा सः तूष्णीं तु न तिष्ठति। ये भक्तजनाः भगवद्दर्शनार्थमागच्छन्ति तेषां पुरतः विकृतचर्याः कुर्यादेव। किं मद्यपानां प्रभावं वयं न जानीमः?? न कुत्रापि पश्यामः?
4. श्लोकः प्रमाणमिति पतञ्जलिरपि वदति महाभाष्ये। किन्तु न उन्मत्तस्य श्लोकः प्रामाण्यम्। मद्यं पीत्वा पूर्णघूर्णितशिरः इति इतोप्यधिकं पातुमिच्छन् यत्किमपि वदेत् तस्य सत्यत्वेन भावनं पुनरुन्मत्ततैव। "प्रमत्त"-पदं तस्मै मद्यपाय कविनैव प्रयुक्तं, न मया। किं मद्यपः सर्वहितं विचिन्त्य तथा आचरति?? दुर्व्यसनस्य मुख्यलक्षणमेवेदं यत्, इतोप्यधिकं तत् द्रव्यं स्वीकृत्य देहशक्तेः नाशं कारयति। अधिकमधिकं विनाशनदिशा नयति। तादृशः कश्चित् विनाशनशीलः किं सत्यं तत्वं वा वक्तुं शक्तः भवेत्?? किं न्यायालये, विद्यालये, गृहे, पार्लमेंट-इत्यादि स्थलेषु तस्य स्वागतं भवेत्? किं सः स्वतन्त्ररूपेण स्थातुमपि शक्येत??
5. स्व बुद्ध्यानुसारं स्व स्वादानुसारं अर्थं गृह्णन्त्विति--- अत्र कविः यल्लिखति तस्य दायित्वमपि तेन स्वीकार्यम्। मन्दिरं मद्यपानस्य योग्यं स्थलमिति उपस्थापयति पद्यमिदम् ; तदपि मद्यपस्य वचनमाधृत्य। संस्कृतभाषायां लिखितिमिति इतोपि विशेषतया विचार्यांशः। परम्परायाः भञ्जनं कुर्वन् मन्दिरे मद्यपस्य प्रलापं स्वीकृत्य तस्य प्रामाण्यं संस्थापयन् श्लोकोयं इतः भिन्नं कथं स्वीकार्यः भवानेव वदतु।
6. तदेव पद्यम् अग्रे गत्वा प्रमाणत्वेन स्वीक्रियेत, अत्र महासावधानतया भवितव्यमस्माभिः। सदुद्देश्येन लिखिताः पूर्वर्षीणां कृतयः अपि अधुना कथं विक्रियन्ते वयं पश्यामः किल। अर्थवैपरीत्यं कियत् क्रियते इति पश्यामः खलु। तेषु एव तथा स्थितेषु, किं वक्तव्यं पारसीकभावानां (पारसीकवितेयं) संस्कृतीकरणं कुर्वताम्??
7. काले गते अग्रे वदेयुः- "पूर्वं भारतदेशे मन्दिरेषु मद्यं पिबन्ति स्म। अत्र अयमेव श्लोकः प्रमाणमि"ति रीत्या।
8. संस्कृतं संस्कृतेः परिरक्षका भाषा भवतु। अस्माकं समीपे नास्तिु किमपि अवशिष्टं स्वपरम्परां रक्षितुम्। अतः सावधानतया भाव्यमित्येव मम भावः। प्रलापं कुर्वन् मद्यपः तथा वदति चेत् युक्त्या उत्तरं दत्त्वा मन्दिरात् बहिः यथा सः गच्छेत् तथा कार्यं पण्डितेन।
9. शिवः सर्वत्र इति भावः कवे:---- ईश्वरः सर्वत्र अस्ति। सत्यम्। किन्तु तादृशाः भावाः निर्मलमनसः ज्ञायन्ते, न उन्मत्तस्थित्याम्।
[अधुना मद्यपानस्य वैशिष्ट्यं मा उपस्थापयन्तु ]।
10. तामसपूजायां मद्यम् अमृतम् इत्येव उक्त्वा देवाय अर्पयन्ति !----
न सामान्यस्थितौ तदुपयुज्यते। किल?? तत् मन्दिरमपि तामसिकमिति नोक्तं पद्ये। अर्चकस्य मनसि यः आराधनाभावं, तदाधृत्य एवं मद्यपस्य जल्पनं महोन्नतभावमिव दर्शनेन सामान्यजना अपि तथैव कुर्युः। तेन मन्दिरमपि मदिरालयो भवेत्।

अपरञ्च-- सः भगवते न निवदयति मद्यम्। स्वयमेव पिबति।

 
उक्तं यद्वक्तव्यम्। सदुद्देश्येन चिन्तनाय उक्तमिदं सर्वं मा अन्यथा स्वीकर्तव्यम्। यद्यत्र मन्दिरस्य विषयं न भवेत्, अहं कदापि न चिन्तिता भवेयम्। सावधानता अस्माकं धर्मस्य प्रप्रथमं लक्षणम्। तदेव भवतां प्रति प्रस्तूयते, नान्यत्।

No comments:

Post a Comment